RBSE Class 7 Sanskrit रचना चित्रवर्णनम्

Rajasthan Board RBSE Class 7 Sanskrit रचना चित्रवर्णनम्

प्रश्न-चित्रम् आधृत्य मञ्जूषायाः सहायतया पञ्चवाक्यानि उत्तरपुस्तिकायां लिखत। (चित्र को आधार बनाकर मजूषा की सहायता से पाँच वाक्य उत्तर-पुस्तिका में लिखो।)

मञ्जूषा 1- अयम्, विद्यालयः, सुन्दरः, समीपे, वृक्षाः, कक्षाः, गच्छामि, मित्रेण सह, प्रतिदिन

RBSE Class 7 Sanskrit रचना चित्रवर्णनम् 1
उत्तर:

  1. अयं मम विद्यालयः अस्ति।
  2. मम विद्यालयः सुन्दरः अस्ति।
  3. अयं विद्यालयः मम गृहस्य समीपे अस्ति।
  4. विद्यालयं परितः बहवः वृक्षाः सन्ति।
  5. विद्यालये पञ्चविंशतिः (25) कक्षाः सन्ति, अहं प्रतिदिनं मित्रेण सह विद्यालयं गच्छामि।
मञ्जूषा 2- कृषकः, क्षेत्रेषु, वृषभाम्या, हलं, कर्षति, बीजेभ्यः कर्तति, अन्नदाता, उद्भवन्ति, शस्यानि

RBSE Class 7 Sanskrit रचना चित्रवर्णनम् 2
उत्तर:

  1. कृषक: क्षेत्रेषु वृषभाभ्यां हलं कर्षति।
  2. सः क्षेत्रेषु बीजानि वपति।
  3. बीजेभ्यः शस्यानि उद्भवन्ति।
  4. यदा शस्यानि पक्वन्ति तदा कृषकः तानि कर्तति।
  5. कृषकः ‘अन्नदाता’ कथ्यते।
मञ्जूषा 3- क्रीड़ाक्षेत्रम्, बालकाः कन्दुकेनः अत्रे, प्रतिदिनम्, क्रीड़ार्थम्, आगच्छन्ति, त्रयः, पश्यामः, अतिप्रसन्नाः

RBSE Class 7 Sanskrit रचना चित्रवर्णनम् 3
उत्तर:

  1. अस्मिन् चित्रे वयम् एकं क्रीडाक्षेत्रं पश्यामः।
  2. अत्र त्रयः बालकाः कन्दुकेन क्रीडन्ति।
  3. क्रीडाक्षेत्रे प्रतिदिनं बालकाः क्रीडार्थम्। आगच्छन्ति।
  4. बालकाः अत्र क्रीडित्वा अतिप्रसन्नाः भवन्ति।
  5. क्रीडाक्षेत्रं परितः अनेकाः वृक्षाः सन्ति।
मञ्जूषा 4- जनाः, परस्परं, फाल्गुनमासस्य, गायन्ति, नृत्यन्ति च गलेन मिलन्नि, रक्तपीतादिवर्णैः मिष्ठान्नं, द्वेष, विस्मृत्य

RBSE Class 7 Sanskrit रचना चित्रवर्णनम् 4
उत्तर:

    1. अस्मिन् चित्रे होलिकोत्सवः आयोज्यते।
    2. इदं महापर्व फाल्गुनमासस्य पौर्णमास्यां भवति।
    3. अस्मिन् दिने जनाः रक्तपीतादिवर्णैः क्रीडन्ति, गायन्ति, नृत्यन्ति च।
    4. अस्मिन् दिने गृहे-गृहे मिष्ठान्नं पच्यते।
    5. जना: परस्परं द्वेषं विस्मृत्य गलेन मिलन्ति।
RBSE Solutions for Class 7 Sanskrit