RBSE Class 8 Sanskrit व्याकरण श्लोक लेखनम्

Rajasthan Board RBSE Class 8 Sanskrit व्याकरण श्लोक लेखनम्

[परीक्षा में एक या दो श्लोक पाठ्य-पुस्तक से लिखने सम्बन्धी प्रश्न भी पूछा जाता है । यहाँ पाठ्य-पुस्तक के सरल श्लोक छात्रों के अभ्यासार्थ दिये जा रहे हैं। छात्र इनमें से 3-4 श्लोक कण्ठस्थ करके उन्हें लिखने का अभ्यास करें।]

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥१॥

क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२॥

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३॥

यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत!
अभ्युत्थानधर्मस्य, तदात्मानं सृजाम्यहम् ॥४॥

परित्राणाय साधूनां, विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय, सम्भवामि युगे युगे ॥५॥

RBSE Class 8 Sanskrit व्याकरण श्लोक लेखनम्

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥६॥

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुपत्वं मार्दवं ह्वीरचापलम् ॥७॥

तेजः क्षमा धृतिः शौचमदोहो नातिमानिता।
भवन्ति सम्पदं देवीमभिजातस्य भारत! ॥८॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥९॥

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१०॥

RBSE Solutions for Class 8 Sanskrit