RBSE Solutions for Class 9 Sanskrit सरसा Chapter 1 वेद-रश्मयः

Rajasthan Board RBSE Class 9 Sanskrit सरसा Chapter 1 वेद-रश्मयः

RBSE Class 9 Sanskrit सरसा Chapter 1 पाठ्य-पुस्तकस्य अभ्यास प्रश्नोत्तराणि

RBSE Class 9 Sanskrit सरसा Chapter 1 वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
विश्वस्य प्राचीनतमः ग्रन्थः कः वर्तते
(क) पुराण-ग्रन्थः
(ख) महाभारतम्
(ग) वाल्मीकि-रामायणम्
(घ) वेदः
उत्तराणि:
(घ) वेदः

प्रश्न 2.
वेदाः कति सन्ति?
(क)चत्वारः
(ख) त्रयः
(ग) पञ्च
(घ) सप्त
उत्तराणि:
(क) चत्वारः

प्रश्न 3.
अयं मन्त्रः ऋग्वेदस्य कस्मात्सूक्तात्सङ्कलितः वर्तते –
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे से जानाना उपासते॥
(क) भूमि-सूक्तात्
(ख) संज्ञान सूक्तात्
(ग) विश्वेदेवा-सूक्तात्
(घ) अग्नि सूक्तात्।
उत्तराणि:
(ख) संज्ञान

प्रश्न 4.
इमानि विशेषणानि कस्याः कृते सन्ति-‘विश्वम्भरा
वसुधानी हिरण्यवक्षा
(क) भूमिः इत्यस्य
(ख) प्रतिष्ठा इत्यस्य
(ग) निवेशिनी इत्यस्य
(घ) बिभ्रती इत्यस्य।
उत्तराणि:
(क) भूमिः इत्यस्य

प्रश्न 5.
‘उद्भिदः’ इत्यस्य पदस्य अर्थः कः?
(क) रोगनाशकः
(ख) सुन्दरः
(ग) अरिनाशकः
(घ) गुणनाशकः
उत्तराणि:
(ग) अरिनाशकः

RBSE Class 9 Sanskrit सरसा Chapter 1 अतिलघूत्तरात्मक प्रश्नाः

निर्देशः प्रत्येकम् एकवाक्यात्मकम् उत्तर प्रदेयम् –

  1. ‘स्तोतारः सं वदध्वं’ अत्र सं वदध्वम् इत्यस्य कोऽर्थः?
  2. “:” समितिः समानीः ‘समितिः’ इत्यस्य पदस्य कोऽर्थः?
  3. वयं कर्णेभिः किं शृणुयाम?
  4. क्रतवः अस्माकं कृते कीदृशाः सन्तु?
  5. कीदृशः इन्द्रः नः स्वस्ति दधातु?
  6. जगतः निवेशिनी का वर्तते?

उत्तराणि:

  1. स्तोतारः संवदध्वं अत्र सं वदध्वम् इत्यस्य अर्थः सहवदत अस्ति।
  2. समितिसमानी समितिः इत्यस्य पदस्य अर्थ सभा, प्राप्ति मेलनं वा अस्ति।
  3. वयं कर्णेभिः भद्रं शृणुयामः।
  4. क्रतवः अस्माकं कृते भद्राः सन्तु।
  5. वृद्धश्रवाः इन्द्रो नः स्वस्ति दधातु।
  6. जगत: निवेशिनी भूमिः वर्तते।

RBSE Class 9 Sanskrit सरसा Chapter 1 लघूत्तरात्मक प्रश्नाः

प्रश्न 1
वेदाः कति सन्ति? तेषां नामानि लिखत।
उत्तरम्:
वेदा: चत्वारः सन्ति। तेषां नामानि सन्ति-ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च।

प्रश्न 2
विद्वांसः वेदानां सकलाः शाखाः कति मन्यन्ते?
उत्तरम्:
विद्वांसः वेदानां सकला: शाखा: 1127 मन्यन्ते।

प्रश्न 3
मन्त्राणां द्रष्टारः के सन्ति?
उत्तरम्:
मन्त्राणां द्रष्टारः ऋषयः सन्ति।

प्रश्न 4
वेदान् अपौरुषेयाः के वदन्ति?
उत्तरम्:
परम्परावादिनः वेदान् अपौरुषेयाः इति वदन्ति।

प्रश्न 5:
वयं कर्णैः किं शृणुयाम, नेत्रैः किं पश्येम?
उत्तरम्:
वयं कर्णे: भद्रं शृणुयाम नेत्रैः च भद्रम् एव पश्येम।

RBSE Class 9 Sanskrit सरसा Chapter 1 निबन्धात्मक प्रश्नाः

प्रश्न 1
वेदानां रचनाकालविषये विदुषां मतं लिखत।
उत्तरम्:
ऋषिः दयानन्दः वेदानां रचनाकालं संसारस्य सृष्ट्या सार्धमेव मनुते। बालगंगाधरतिलकमहाभागस्य मतानुसारेण वेदानां प्राचीनतमाः ऋचः 6500 ई०पू० पर्यन्तं विरचिताः। मैक्समूलरानुसारेण 1200 ई०पू०, मेकडोनलानुसारेण 1300 ई० पू०, डॉ० आर० जी० भण्डारकर महोदयस्य मतानुसारेण ऋग्वेदस्य रचना 6000 ई० पू० अभवत्। जैकोवी महोदय एतत् कालं 4500 ई० पू० मनुते।

प्रश्न 2
‘भद्रं कर्णेभिः शृणुयाम ………’ अस्य मन्त्रस्य भावं स्वशब्दैः लिखत।
उत्तरम्:
अस्मिन् मन्त्रे ऋषि: प्रजापति देवेभ्यः प्रार्थयते यत् हे यजमानानां परिपोषका: देवा: अस्मिन् लोके वयं सर्वे स्तोतारः, याजकाः सर्वतः एव कल्याण कारकानि वचनानि शृणुयाम न तु अशुभ कटु वचनानि। हे देवाः! वयं सर्वे शुभानि हितकरानि कल्याणदायकानि दृश्यानि एवं पश्येमा हे देवा:! वयं आराधको: सदैव हृष्टपुष्टाङ्गः स्तुतिं कुर्वन्तः देवैः निर्धारितं पूर्णं वयः प्राप्नुयाम। दीर्घवयश्च भवेम।

प्रश्न 3
‘वेदेषु सर्वेषां कल्याणाय चिन्तनं विहितम्। अस्ति’ इति कथनं स्पष्टीकरोतु।
उत्तरम्:
वेदानां चिन्तनं मनुष्याणां हिताय एव। सर्वे मिलित्वा एवं आचरन्तु मिलित्वा वदन्तु। सर्वेषां जनानां चिन्तनं समान एव भवतु। वयं भद्रं शृणुयाम भद्रम् एव पश्याम, भद्रम् एवं चिन्तयाम। सर्वे देवाः मानवानां कल्याणं कुर्वन्तु अत: अस्मिन् श्लोके वेदानां सारं कथितम्।
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्॥
अत: संसारे सवें प्राणिनः सुखिनः भवन्तु, कोऽपि दु:खी न भवेत् इति वेदानां चिन्तनम्।

प्रश्न 4
अस्य मन्त्रस्य संक्षिप्ता व्याख्या करणीया।
“भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः॥”
उत्तरम्:
मन्त्रोऽयम् अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य ‘वेद-रश्मयः’ इति पाठात् उद्धृतः। मूलतोऽयं मन्त्रः शुक्ल यजुर्वेदस्य विश्वेदेवा सूक्तात् संकलितः अस्ति। अनेन मन्त्रेण ऋषिः कामयते यद् वयं सदैव मधुराणि शुभ वचनानि एवं शृणुयाम। हे देवाः! भवन्तः याजकानां रक्षकाः अतः भवतां कृपया वयं सर्वत: शुभम् एव पश्याम। हृष्ट-पुष्टाङ्गाः भवेम, पुष्टशरीरेण भवतां स्तुतिं करवाम। पूर्ण आयुषं प्राप्य शतायुः भवाम्।

RBSE Class 9 Sanskrit सरसा Chapter 1 अन्य महत्त्वपूर्ण प्रश्नोत्तराणि

अधोलिखित प्रश्नान् संस्कृत भाषया पूर्णवाक्येन उत्तरत –

प्रश्न 1.
मानवानां मनः कीदृशं भवेत्?
उत्तरम्:
मानवानां मनः समानं भवेत्।

प्रश्न 2.
विश्वतः नः के आयन्तु?
उत्तरम्:
विश्वतः नः भद्राः क्रतव: आयन्तु।

प्रश्न 3.
अस्मान् के स्वस्ति दधातु?
उत्तरम्:
वृद्धश्रवाः इन्द्रः विश्ववेदाः पूषा, अरिष्टनेमि
तार्थ्यः बृहस्पतिः च नः स्वस्ति विदधातु।

प्रश्न 4.
वयं कर्णेभिः किं शृणुयाम?
उत्तरम्:
वयं कर्णेभिः भद्रं शृणुयाम।

प्रश्न 5.
वयम् अक्षभिः कीदृशं पश्येम?
उत्तरम्:
वयम् अक्षभिः भद्रम् पश्येम।

प्रश्न 6.
अस्मभ्यम् को द्रविणे दधातु?
उत्तरम्:
इन्द्र ऋषभा द्रविणे नो दधातु।

प्रश्न 7.
कीदृशाः देवाः नः रक्षितार: भवन्तु?
उत्तरम्:
अप्रायुव: देवाः नः रक्षितारः भवन्तु।

प्रश्न 8.
पूर्वे देवाः कथं भागम् उपासते स्म?
उत्तर:
पूर्वे देवाः सञ्जानानः भागम् उपासते स्म।

प्रश्न 9.
भद्राः क्रतवः कुतः आयन्तु?
उत्तरम्:
भद्राः क्रतवः विश्वतः आयन्तु।

प्रश्न 10.
अग्निम् का दधाति?
उत्तरम्:
अग्निम् भूमिः दधाति।

स्थूलपदानि अधिकृत्य प्रश्न निर्माणं कुरुत –

प्रश्न 1.
समानेन हविषा व: जुहोमि।
उत्तरम्
केन व: जुहोमि?

प्रश्न 2.
इन्द्रः वृद्धश्रवाः देवः।
उत्तरम्:
इन्द्रः कीदृशः देवः?

प्रश्न 3.
वयं भद्रं पश्याम।
उत्तरम्:
वयं किं पश्याम?

प्रश्न 4.
अदब्धासो अपरीतासः उद्भिदः क्रतवः नः आयन्तु।
उत्तरम्:
कीदृशाः कृतवः नः आयन्तु?

प्रश्न 5.
पूषा नः स्वस्ति दधातु।
उत्तरम्:
कः नः स्वस्ति दधातु?

पाठ परिचय

प्रस्तुत पाठ में संकलित वेदमंत्र निर्भयता, समरसता, प्रेम, दया, सुख आदि भावों का प्रसार करते हुए समाज की व्यवस्था के प्रति हमें जागरूक करेंगे, ऐसा मानकर इन मंत्रों को इस पाठ में संकलित किया है।

मूलपाठ, अन्वय, शब्दार्थ, हिन्दी-अनुवाद एवं

♦ सप्रसंग संस्कृत व्याख्या

1. सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे से जानाना उपासते।

अन्वयः-हे स्तोतारः! यूयं सङ्गच्छध्वं संवदध्वं वः मनांसि सञ्जानताम्। यथा पूर्वे देवाः भागं सञ्जानाना उपासते।

शब्दार्था:–हे स्तोतारः! = हे स्तुति कर्तारः! (हे प्रशंसा करने वालों)। यूयम् = भवन्तः (तुम लोग)। संगच्छध्वम् = सम् भूत्वा/मिलित्वा चलत (साथ-साथ/मिलकर चलें)। संवदध्वम् = समानां वाणीं वदत (एक-सी वाणी बोलो)। वः = युष्माकम् (तुम्हारे)। मनांसि = चित्तानि (मन/हृदय)। सञ्जानताम् = समानं अवगच्छन्तु (समान विचारधारा वाले होकर जाने अर्थात् ज्ञान प्राप्त करें)। यथा = येन प्रकारेण (जैसे)! पूर्वे = प्राचीन काले (प्राचीन काल में)। देवाः = सुरोः (देवता/सज्जनों ने)। भागम् = अंशम् (यज्ञ भाग को)। सञ्जानानाः = एकमत्य प्राप्ताः (एकमत हुए)। उपासते = स्वीकुर्वन्ति स्म (ग्रहण करते थे)।

हिन्दी-अनुवादः-हे स्तुति (प्रशंसा) करने वालो! आप लोग साथ-साथ मिलकर चलें। परस्पर मिलकर एक-सी वाणी बोलें। तुम्हारे मन (विचार) समान होकर ज्ञान प्राप्त करें अर्थात् जानें। जिस प्रकार प्राचीनकाल में देवताओं अर्थात् सज्जनों ने एक साथ मिलकर यज्ञ भाग को स्वीकार किया था अर्थात् ग्रहण करते थे।

सप्रसंग संस्कृत व्याख्याः –अयं मन्त्रः अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य वेद-रश्मयः’ इति पाठात् उद्धृतः। मन्त्रः अयं मूलत: ऋग्वेदस्य संज्ञान-सूक्तात् सङ्कलितः। मन्त्रे अस्मिन् ऋषिः स्तोतृन् प्रति कथयति हे स्तुति कर्तार:! भवन्त: मिलित्वा चलन्तु, समानं वाणीं वदन्तु, युष्माकं चित्तानि समानं विचारम् अवगच्छन्तु। येन प्रकारेण प्राचीनकाले सुराः (सज्जना) यज्ञ भागं स्वीकुर्वन्ति स्म तथैव यूयम् अपि उपलब्धं वैभवम् । विलित्वा स्वीकुरुत।।

♦ याकणिक बिन्दवः-

1. गच्छध्वम् = गम् धातोः लोटलकार मध्यम पुरुषस्य बहुवचनं सिध्यते।
2. संवदध्वम् = ‘सम्’ उपसर्गपूर्वक वद् धातो: लोट्लकार मध्यम पुरुषस्य बहुवचनम्।
2. समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि॥

अन्वयः-एषां मन्त्रः वः समानः, समितिः (अपि) समानी (अस्तु), मन: समानं (अस्तु), चित्तं सह वेः समानं मन्त्रम् अभिमन्त्रये (तथा) वः समानेन हविषा जुहोमि।।

शब्दार्थाः-एषाम् = एतेषाम् (मनुष्याणाम्) (इन मनुष्यों का)। मन्त्रः = चिन्तनम् (विचार)। वः = युष्माकम् (तुम्हारे)। समानः = सदृशः (एक जैसे)। समितिः = सभा (सभा)। अपि = भी। समानी = सदृशी (एक-सी)। अस्तु = भवतु (हो)। मनः = अन्त:करणम्/चित्तम् (मन)। समानं = सदृशम् (समान)। अस्तु = भवतु (हो)। चित्तम् = हृदयम् (हृदय)। सह = सार्धम् (साथ)। वः = युष्माकम् (तुम्हारा)। समानम् = सदृशम् (समान)। मन्त्रम्= चिन्तनम्। (विचार को)। अभिमन्त्रये = संस्करोमि (संस्कारित करता हूँ)। तथा = तेनैव प्रकारेण (उसी प्रकार से)। वः = युष्माकम् (तुम्हारे)। समानेन = सदृशेन (समान रूप से)। हविषा = अन्नादिभिः (अन्न आदि से)। जुहोमि = समर्पयामि (समर्पित करता हूँ)।

हिन्दी-अनुवादः-इन मनुष्यों के विचार (तुम्हारे) समान हों। तुम्हारी सभा अर्थात् परस्पर मिलन भी एक-सा अर्थात् समान हो। तुम्हारे मन, हृदय भी एक समान हों। तुम्हारे समान विचारों को मैं संस्कारित करता हूँ। तुम्हें समान रूप से हवि अर्थात् अन्नादि सामग्री प्रदान करता हूँ। सप्रसंग संस्कृत व्याख्याः –मन्त्रोऽयम् अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य वेद-रश्मयः’ इति पाठात् उद्धृतः। मूलतः एष मन्त्रः ऋग्वेदस्य संज्ञान सूक्तात् सङ्कलितः अस्ति। अस्मिन् मन्त्रे ऋषि: मनुष्येभ्यः उपदिशति यत् तेषां चिन्तनम्, परस्परं मेलनं मनः, अन्त:करणम्, बुद्धिः च सदृशाः भवन्तु। ऋषिः उपदिशति-एतेषां मनुष्याणां चिन्तनं युष्माकं सदृशमेव भवतु। युष्माकं सभा (मेलनं) अपि सदृशी एव भवतु। अहं युष्माकं चित्तेन सार्धमेव युष्माकं चिन्तनमपि संस्कारितं करोमि। तत् सदृशेन अन्नादिकेन (समानरूपेण) समर्पयामि।

♦ व्याकरणिक बिन्दवः-

1. मन्त्रः = मन्त्र (परामर्श) धातोः अच् प्रत्यये विहिते मन्त्रः पदं सिध्यते।
2. हविस् = शब्दे टापू (तृतीया एकवचने) प्रत्यये विहिते हविषा पदं सिध्यते।।
3. आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः।।
देवा नो यथा सदमिवृधे असन्नप्रायुवो रक्षितारो॥

अन्वयः-नः भद्राः क्रतवः आयन्तु अदब्धासः अपरीतासः उभिदः। अप्रायुवः (अत:) दिवे दिवे रक्षितार: देवाः नः सदमिवृधे यथा असन्।

शब्दार्थाः–भद्राः = शुभ (कल्याणकारी)। अपरीतासः = अप्रतिहताः (अपराजित)। अदब्धासः = निर्विघ्नाः (विघ्ने रहित, किसी के दबाव में न आने वाले)। उद्भिदः = शत्रुनाशकाः, समुन्नति कारकाः (शत्रुओं का नाश करने तथा उन्नति करने वाले)। क्रतवः = हिंसारहित यज्ञाः, सविचारा: (हिंसारहित यज्ञ, उत्तम विचार)। नः = अस्मान् प्रति, अस्माकम् (हमारी ओर, हमारा)। विश्वतः = सर्वत: (सभी ओर से)। आयन्तु = आगच्छन्तु (आये)। यथा = येन प्रकारेण (जिससे, जिस प्रकार से)। अप्रायुवः = अप्रमत्ताः आलस्यरहिताः (आलस्यरहित, सावधान)। रक्षितारः = रक्षकाः, रक्षा कुर्वन्तः (रक्षा करने वाले)। देवाः = यज्ञफलदातारः (यज्ञफल देने वाले)। सदम् इत् = सदैव (हमेशा)। वृधे= समृद्धये, कल्याणाय (समृद्धि और कल्याण के लिए)। असन् = भवन्तु, (हो)।

हिन्दी-अनुवादः-कल्याणकारी, बाधारहित, किसी के दबाव में न आने वाले उत्तम विचार हमारे पास सभी ओर से आये जिससे आलस्यरहित रक्षा करने वाले, यज्ञफल देने वाले देवता प्रत्येक दिन सदैव हमारी समृद्धि और कल्याण के लिए हों। सप्रसंग संस्कृत व्याख्या:-अयं मन्त्रः अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य ‘वेद-रश्मयः’ इति पाठात् उद्धृतः। मन्त्रोऽयं मूलतः शुक्ल यजुर्वेदात् विश्वेदेवा सूक्तात् सङ्कलितः। अनेन मन्त्रेण ऋषिः प्रार्थयते यद् सद्विचारा: एव सदैव अस्माकं चित्ते आयन्तु। ऋषिः कथयति–शुभाः, अबाधाः, निर्विघ्नाः, समुन्नतिकारकाः, हिंसा-रहित-सद्विचाराः अस्मान् प्रति सर्वतः आगच्छन्तु येनं आलस्यरहिताः, रक्षकाः, यज्ञफलदातार: देवाः प्रतिदिनं सदैव अस्माकं समृद्धये भवन्तु।।

♦ व्याकरणिक बिन्दवः-

1. विश्वतः = विश्व इति शब्दे तसिल् प्रत्यये विहिते विश्वतः पदं सिध्यते।
2. रक्षितारः = रक्ष धातोः तृच् प्रत्यये विहिते प्रथमा बहुवचने रक्षितारः पदं सिध्यते।
4. स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्षयो अरिष्टनेमिः स्वस्ति नो वृहस्पतिर्दधातु॥

अन्वयः–वृद्धश्रवाः इन्द्रः नः स्वस्ति दधातु, नः विश्ववेदाः पूषा देवः नः स्वस्ति विदधातु। स्वस्ति नः तार्क्षयो नः स्वस्ति विदधातु, तथा वृहस्पति: अरिष्टनेमिः नः स्वस्ति विदधातु।

शब्दार्थाः–वृद्धश्रवाः = महायशस्वी, परमकीर्तिः (महान यश या कीर्ति वाला)। इन्द्रः = शतक्रतुः, शक्रः (सौ यज्ञ करने वाला इन्द्र)। नः = अस्माकम् (हमारा)। स्वस्ति = कल्याणम् (कल्याण, भला)। दधातु = करोतु (करें)। विश्ववेदाः = सर्वज्ञः विश्वज्ञः (सबको जानने वाला)। पूषा = पोषकः (पोषण करने वाला)। देवः = फलदाता (फल देने वाला)। स्वस्ति = कल्याणम् (कल्याण, भला)। विदधातु = करोतु (करे)। स्वस्ति = कल्याणम् (कल्याण हो)। तार्क्षयो = गरुड़/सूर्यः (गरुड़ या सूर्य)। स्वस्ति = कल्याणम् (कल्याण, भला)। विदधातु = करोतु (करे)। तथा = च (और)। वृहस्पतिः = देव गुरुः (देवगुरु वृहस्पति)। अरिष्टनेमिः = अनिष्टनाशक, (अशुभनाशक)। स्वस्ति = कल्याणम् (कल्याण, भला)।

हिन्दी-अनुवादः-महान् यश या कीर्ति वाले सौ यज्ञ करने वाले ईन्द्र हमारा कल्याण करें। सबको जानने वाले, पोषण करने वाले पुषा देवता हमारा कल्याण करें। हमारा कल्याण हो। गरुड़ और सूर्य देवता हमारा भला करें और देवगुरु वृहस्पति हमारे अनिष्ट का नाश करें। सप्रसंग संस्कृत व्याख्या-अयं मन्त्रः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य ‘वेद-रश्मयः’ इति पाठात् उद्धृतः। मूलतः अयं मन्त्रः शुक्ल यजुर्वेदस्य विश्वेदेवा सूक्तात् सङ्कलितः। अनेन मन्त्रेण ऋषिः मानव-कल्याणाय प्रार्थयते। ऋषिः प्रार्थयते-यत् परमकीर्तिः यशस्वी शतक्रतुः इन्द्रः अस्माकं कल्याणं करोतु। सर्वज्ञः पोषकः पूषादेव: अस्माकं कल्याणं करोतु। देवगुरु: वृहस्पतिः च अनिष्टनाशकः अस्माकं कल्याणं करोतु।

♦ व्याकरणिक बिन्दवः-

1. न इन्द्रो वृद्धश्रवाः = नः + इन्द्रः + वृद्धश्रवाः (विसर्ग लोप व उत्वविधान)।
2. विश्ववेदाः = विश्व वेत्ति यः सः/विश्वस्य वेत्ता।
5. भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरंगैस्तुष्टुवाँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः॥

अन्वयः– हे देवाः (वयं) कर्णेभिः भद्रं शृणुयाम, हे यजत्राः, अक्षभिः भद्रं पश्येम, स्थिरैः अङ्गः, तनूभिः, तुष्टुवाँस: देवहितं यदायुः व्यशेमहि।

शब्दार्थाः-हे देवाः = हे देवता (फल प्रदान करने वाले देवों) (वयं = हम)। कर्णेभिः = श्रवणैः (कानो से)। भद्रम् = कल्याणम्, शुभ वचनम् (कल्याणकारी, शुभ वचन)। शृणुयाम = श्रोतुम् समर्थाः भवेम (सुनें)। हे यजत्राः = हे यजनीय देव। याजक रक्षकाः = यज्ञ करने योग्य यज्ञ करने वालों की रक्षा करने वाले। (वयं = हम) अक्षभिः =: नेत्रैः (आँखों से)। पश्येम = द्रष्टुं समर्थाः भवेम (देखे)। स्थिरैः। = दृढ़ेः (स्थिर, मजबूत परिपुष्ट)। अङ्गैः = अवयवैः, युतेन । (अंगों से युक्त)। तनूभिः = शरीरेण (शरीर द्वारा)। तुष्टुवाँसः = स्तुतवन्तः (स्तुति करते हुए)। देवहितं = देव स्थापितम्, देवैः निहितम् (देवताओं द्वारा निर्धारित, स्थापित)। यदायुः = यत् जीवितं, यावद् वयः (जितनी आयु या उम्र है, पूर्ण आयु)। व्यशेमहि = विशेष रूपेण प्राप्नुमः (विशेष रूप से प्राप्त करे)।

हिन्दी-अनुवादः–हे देवताओ! हमें कानों से कल्याणकारी या शुभ वचन ही सुनें और यज्ञ करने वाले की रक्षा करने वालो! हम आँखों से कल्याणकारी या शुभ दृश्य ही देखे। परिपुष्ट (मजबूत) अंगों वाले शरीर से देवताओं द्वारा निर्धारित (स्थापित) जो उम्र है अर्थात् जितनी आयु है उसे विशेष रूप से प्राप्त करें। सप्रसंग संस्कृत व्याख्याः -अयं मन्त्रः अस्माकं ‘सरसा’ इति पाठ्य-पुस्तकस्य वेद-रश्मयः’ इति पाठात् उद्धृतः। मूलतः अयं मन्त्रः शुक्ल यजुर्वेदस्य विश्वेदेवा इति सूक्तात् सङ्कलितः। अनेन मन्त्रेण ऋषिः भद्रम् एव प्राप्तुं प्रार्थयते। सः निवेदयति यत् हे देवताः! वयं श्रवणैः शुभं कल्याणप्रदं वचनम् एव श्रोतुं समर्थाः भवेम। हे याजका: रेक्षका: यजनीय देवाः वयं नेत्रैः कल्याणदायकं (दृश्यमे T) दृष्टुं समर्थाः भवेम। दृढ़ेः अवयवैः युतेन शरीरेण स्तुतवन्त: देवै: निहितं यत् वय: तद् विशेषरूपेण प्राप्नुवाम।।

♦ व्याकरणिक बिन्दवः-

1. शृणुयाम = श्रु धातोः उत्तम पुरुष बहुवचने लोट्लकारे मस् प्रत्यये विहिते ‘शृणुयाम’ इति पदं सिध्यते।
2. स्थिरैरङ्गैस्तुष्टुवाँ = स्थिरैः + अङ्गः + तष्टुवान् (विसर्ग सन्धि रुत्व सत्व)।
6. विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशिनी।।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्र-ऋषभा द्रविणे नो दधातु॥

अन्वयः–विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगत: निवेशिनी, वैश्वानरं बिभ्रती भूमि: अग्निम् इन्द्र-ऋषभा द्रविणे नः दधातु।

शब्दार्थाः–विश्वंभरा = विश्वस्य भरण-पोषणं कर्जी पृथ्वी (विश्व का भरण-पोषण करने वाली भूमि)। वसुधानी = धनाकरवती, रत्नगर्भा (विविध रत्नों की खान, धन से परिपूर्ण)। प्रतिष्ठा = सर्वेषां वस्तूनाम् आधारभूता (सभी वस्तुओं का आधार)। हिरण्यवक्षा = स्वर्ण सदृश वक्षस्थला, स्वर्णं गर्भे यस्याः सा (सोने के समान वक्षस्थल वाली या जिसके गर्भ में सोना है)। जगतः = जड़-जंगमात्मकस्य संसारस्य (चर-अचरे संसार की)। निवेशिनी = जीवानां वासयिनी (जीवों को बसाने वाली)। वैश्वानरम् = जन समूहम्, अग्निम् (जन समूह, अग्नि)। बिभ्रती = धारयन्ती ( धारण करती हुई, भरणपोषण करती हुई)। भूमिः = पृथिवी (धरा)। अग्निम् = अग्रगामिनं नेतारम् अगिन (अग्रगामी नेता अग्नि को)। इन्द्र-ऋषभा = इन्द्र ऋषभेन सम्बन्धिताः (इन्द्र और ऋषभ सम्बन्धी)। द्रविणे = धने (धन में)। नः = अस्मभ्यम् (हमारा/हमारे लिए)। दधातु = धारयतु ( धारण करें), प्रददातु (प्रदान करे)।

हिन्दी-अनुवादः-विश्व का भरण-पोषण करने वाली भूमि, धन से परिपूर्ण सबकी आधार या आश्रय देने वाली, जिसके गर्भ में सोना है, चराचर संसार के जीवों को बसाने वाली, जनसमूह और अग्नि को धारण करती हुई पृथिवी अग्रगामी नेता अग्नि को बलशाली इन्द्र को तथा हम सबको धन प्रदान करे। सप्रसंग संस्कृत व्याख्या:-अयं मन्त्रः अस्माकं ‘सरसा’ इति पाठ्यपुस्तकस्य वेद-रश्मयः’ इति पाठात् उद्धृतः । मूलतः अयं मन्त्रः अथर्ववेदस्य पृथ्वी सूक्तात् सङ्कलितः। अस्मिन् मन्त्रे धनकामना कृता। विश्वस्य भरण-पोषण-कत्र पृथ्वी धनरलगर्भा सर्वेषां वस्तूनाम् आधारभूता, यस्याः गर्भे स्वर्णम् अस्ति, जेड जंगमात्मकस्य संसारस्य जीवा निवासयित्री अग्निम्। जनसमूहं च धारयित्री भूमि बलशालिने इन्द्राय अस्मभ्यं च धनं प्रददातु।

♦ व्याकरणिक बिन्दवः-

1. विश्वम्भरा = विश्वं भरति या सा पृथिवी (बहुव्रीहि समासः)।
2. बिभ्रती = भृ + शतृ + ङीप्।

RBSE Solutions for Class 9 Sanskrit 

Leave a Comment

Step into high-class excitement at hell spin casino, where glittering reels, lavish bonuses, and thrilling jackpots create nonstop luxury. Each spin delivers pulse-raising suspense, elegance, and the electrifying chance of big Australian online casino wins.

Indulge in elite thrills at joefortune-casino.net, offering dazzling gameplay, sparkling rewards, and adrenaline-pumping jackpots. Every moment immerses players in glamour, high-stakes excitement, and the intoxicating pursuit of substantial casino victories.

Discover top-tier sophistication at neospin casino, with vibrant reels, generous bonuses, and luxurious jackpots. Each spin captivates with elegance, thrill, and the electrifying potential for extraordinary wins in the premium Australian casino environment.

Enter a world of luxury at rickycasino-aus.com, where high-class slots, sparkling bonuses, and pulse-racing jackpots create unforgettable moments. Every wager delivers excitement, sophistication, and the premium thrill of chasing massive casino wins.