RBSE Class 12 Sanskrit Model Paper 1 is part of RBSE Class 12 Sanskrit Board Model Papers. Here we have given RBSE Class 12 Sanskrit Sample Paper 1.
Board | RBSE |
Textbook | SIERT, Rajasthan |
Class | Class 12 |
Subject | Sanskrit |
Paper Set | Model Paper 1 |
Category | RBSE Model Papers |
RBSE Class 12 Sanskrit Sample Paper 1
समय : 3:15 घण्टे
पूर्णांक : 80
परीक्षार्थिभ्यः सामान्य निर्देशाः
- परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामांक अनिवार्यतः लेख्यः।
- सर्वे प्रश्नाः अनिवार्याः।
- प्रत्येक प्रश्नस्योत्तरम् उत्तरपुस्तिकायामेव देयम्।
- प्रत्येक प्रश्नभागस्य उत्तरं क्रमानुसारमेकत्रैव लेखितव्यम्।
प्रश्न 1.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
जातं वंशे भुवनविदिते पुष्करावर्तकानां,
जानामि त्वां प्रकृति-पुरुषं कामरूपं मघोनः।
तेनार्थित्वं त्वयि विधिवशात् दूरबन्धुर्गतोऽहम्
याच्या मोघा वरमधिगुणे नाधमे लब्धंकामा ।।
(क) यक्षानुसारेण मेघाः केषां वंशे उत्पन्नाः आसन् ? [1]
(ख) ‘दूरबन्धुर्गतोऽहम्’ इत्यत्र दूरबन्धुः शब्दस्य कः अभिप्रायः? [1]
(ग) याच्या मोघा वरमधिगुणे नाधमे लब्धकामा’ इति सूक्तिवाक्यं व्याख्यायत । [2]
प्रश्न 2.
अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत– [4]
भवादृशा एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः। गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति हरत्यतिमलिनमन्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव। गुरूपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन् गुणरूपेण तदेव परिणमयति ।
(क) उपदेशगुणाः कुत्र सुखेन प्रविशन्ति ? (पूर्णवाक्येन उत्तरं दीयताम्) [1]
(ख) ‘अभव्यस्य श्रवणस्थितं गुरुवचनं किं उपजनयति ? [1]
(ग) “भवादृशा एव भवन्ति भाजनान्युपदेशानाम्’ इत्यत्र भवादृशा इत्ययं शब्दः कस्य कृते प्रयुक्त: किमर्थं चायम् उपदेशयोग्यः अस्ति? [2]
प्रश्न 3.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
सीता – बहुमानितास्मि पूर्वविरहे।
रामः – दुःखायैव सुहदामिदानीम् रामदर्शनम् । तदनुजानीहि मां गमनाय।
सीता – (तमसामाश्लिष्य) हा भगवति तमसे, गच्छतीदानीमार्यपुत्रः। किं करोमि? (इति मूच्र्छति)
तमसा – वत्से जानकि! समाश्वसिहि। विधिस्तवानुकूलो भविष्यति। तदायुष्मतोः
कुशलवयोर्वर्षद्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छावः।।
रामः – अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे।
सीता -(साक्षेपम्) आर्यपुत्रः कः?
वासन्ती – परिणीतमपि किम् ?
रामः – नहि, नहि, हिरण्यमयी सीताप्रतिकृतिः।।
सीता – (सोच्छ्वासासम्) आर्यपुत्र, इदानीमसि त्वं । अहो उत्खातितमिदान में परित्यागशल्यमार्यपुत्रेण ।
(क) रामस्ये अश्वमेध-सहधर्मचारिणी का आसीत् ? (पूर्णवाक्येन उत्तरं दीयताम्) [1]
(ख) ‘प्रतिकूल’ इति पदस्य विलोमः नाट्यांशात् चिनुत । [1]
(ग) तमसा सीतां भागीरथी समीपं केन प्रयोजनेन गन्तुं कथयति ? [2]
प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत [3]
(क) चारुदत्त: अवन्तिपूर्या निवसति स्म।
(ख) गते व्याघ्र तत्र चित्रकः समाययौ।
(ग) प्रयत्नं विना साफल्यं न लभते ।
प्रश्न 5.
निम्नलिखित वाक्ययोः भावार्थ: हिन्द्यां संस्कृते वा लिखत [4]
(क) समत्वं योग उच्यते।।
(ख) चत्वारि तस्य वर्द्धन्ते आयुर्विद्यायशोबलम्।
प्रश्न 6.
अधोलिखित श्लोकस्य अन्वय सहितं सरलम् अर्थं हिन्द्यां संस्कृते वा लिखत [3]
अल्पानामपिवस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।।
प्रश्न 7.
निम्नलिखितयोः शब्दयोः हिन्दीभाषायां आंग्लभाषाया वा अर्थं लिखत [2]
(क) हविषा ।
(ख) प्रावारकः ।।
प्रश्न 8.
‘यलमातिष्ठेत् विद्वान्’ इत्यत्र ‘आतिष्ठेत्’ क्रियायाः कर्ता कः? [1]
प्रश्न 9.
‘परं हन्त हन्त ! सङ्घटनात्मिक बुद्धिं दूरतस्त्यजामः’ इत्यत्र’ ‘बुद्धिं’ इति पदस्य विशेषणं पदं चिनुत । [1]
प्रश्न 10.
‘छायेव तां भूपतिरन्वगच्छत्’ इत्यत्र ‘तां’ सर्वनामस्थाने संज्ञापदस्य प्रयोगं कुरुत। [1]
प्रश्न 11.
स्वामिन् ! त्वदीयोऽहं लागुडिकः। इति कः कस्मै कथयति? [1]
प्रश्न 12.
‘माता गुरुतरा भूमेः’ इत्यत्र रेखाङ्कितपदस्य विलोम पदं लिखत । [1]
प्रश्न 13.
‘महीयांसः प्रकृत्या मितभाषिणः’ रेखाङ्कितपदस्य पर्याय पदं लिखत। [1]
प्रश्न 14.
चतुर्णा वेदानां संक्षिप्तं वर्णनं कुरुत। [3]
प्रश्न 15.
कादंबर्याः संक्षिप्त परिचयं लिखत। [2]
प्रश्न 16.
मुद्राराक्षस-नाटकस्य वैशिष्ट्यं लिखत। [2]
प्रश्न 17.
निम्नलिखित-प्रश्नानां संक्षिप्तम् उत्तरं लिखत [3]
(क) आचार्य मधुकरशास्त्रिणा रचितस्य महाकाव्यस्य किं नाम अस्ति?
(ख) ईश्वरविलासः इति महाकाव्यस्य लेखकः कः अस्ति?
(ग) पं. गुलाबचन्द्रचूलेट: केन पुरस्कारेण विभूषितः आसीत् ?
प्रश्न 18.
अधोलिखितेषु कस्यापि एकस्य छन्दसः लक्षणोदाहरणे लिखत [3]
(क) उपजाति
(ख) वसन्ततिलका
(ग) मन्दाक्रान्ता
प्रश्न 19.
निम्नलिखित-कस्यापि एकस्याः पंक्त्याः गणचिह्न प्रदर्शयन् छन्दसः नामोल्लेखं कुरुत [2]
(क) कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।
(ख) सा मां पातु सरस्वती भवगती निःशेषजाड्यापहा।
प्रश्न 20.
अधोलिखित कस्यापि एकस्य अलङ्कारस्य लक्षणोदाहरणे लिखते [3]
(क) यमकम्
(ख) उपमा
(ग) अर्थान्तरन्यासः
प्रश्न 21.
निम्नलिखित कस्यामपि एकस्यां पंक्यां प्रयुक्त-अलङ्कारस्य नामोल्लेखपूर्वक लक्षणं लिखत- [2]
(क) कावेरी वारि पावन-पवनः।
(ख) संसार-विषवृक्षस्य द्वे एवं रसवत्फले।
प्रश्न 22.
अधोलिखितं अपठित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- [4]
अस्मिन् संसारे द्विविधाः जनाः दृश्यन्ते। केचन भाग्यवादिनः अपरे पुरुषार्थशीलाः। भाग्यवादिनः कथयन्ति यत्-भाग्य फलति सर्वत्र न तु विद्या न च पौरुषम् इति। नरः किमपि कुत्रापि न करोति, ईश्वरेच्छा सदा बलीयसी भवति। पुरुषार्थशालिनः वदन्ति यत् उन्नतिः पुरुषार्थेन एव भवति। अभीष्टपदार्थानां सुखम् आप्तुम् उद्योग एव मुख्यं साधनम् । सुखस्य कारणं उद्योगः अस्ति दुःखस्य च आलस्यम्।।
(क) ‘भाग्यं फलति सर्वत्र न तु विद्या न च पौरुषम्’ इति के कथयन्ति ? (एकपदेन उत्तरं)
(ख) अभीष्टपदार्थानां सुखम् आप्तुम् मुख्यं साधनम् किम् ? (पूर्णवाक्येन उत्तरं दीयताम्)
(ग) ‘द्विविधाः जनाः’ इत्यत्र विशेषणं विशेष्य-पदं किम्?
(घ) पुरुषार्थशालिनि: किं वदन्ति ?
प्रश्न 23.
अधोलिखित अपठित गद्यांशं पठित्वा निर्देशानुसार प्रश्नानाम् उत्तराणि लिखत- [4]
परेषाम् उपकारः परोपकारः इति कथ्यते । प्राणिनाम् उपकारः परोपकारोऽस्ति । मनसा, वाचा, कर्मणा परेषां हितानुष्ठानमेव परोपकारोऽस्ति। सत्पुरुषाः कदापि स्वार्थतत्पराः न भवन्ति। ते सर्वदा परेषां हितसाधनार्थं तत्पराः भवन्ति। वृक्षाः अपि स्वकीयान् फलान् अन्यान् ददति । परोपकारी जनाः तु परेषां दु:खं स्वीयं दुःखं मत्वा तन्नाशाय यतन्ते । ते निर्धनेभ्यो धनं, वस्त्रहीनेभ्यो, वस्त्रं, पिपासितेभ्यो जलं, बुभुक्षितेभ्यो अन्नम्, अशिक्षितेभ्यश्च शिक्षा ददति। परोपकारेण हृदयं पवित्रं सरलं सरसं सदयं च भवति। परोपकारभावनयैव दधीचिः देवानां हिताय स्वीयानि अस्थीनि अददत् ।।
(क) के कदापि स्वार्थतत्पराः न भवन्ति? (एकपदेन उत्तरं दीयताम्)
(ख) कः देवानां हिताय स्वीयानि अस्थीनि अददत? (पूर्णवाक्येने उत्तरं दीयताम्)
(ग) “ते सर्वदा परेषां हितसाधनार्थं तत्पराः भवन्ति’ इत्यत्र सर्वनाम पदं चिनुत ।
(घ) गद्यांशस्य समुचितं शीर्षकं लिखत ।
प्रश्न 24.
प्रदत्त शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेदं लिखत- [5]
सतां सङ्गतिः, मानव-जीवने, फलम्, महत्त्वं, मूर्खः, प्रवीणताम्, विचारधारा, यशः, गुणयुक्त:, दोषनिवारणः, कुसङ्गतिः, विनाशः, सत्सङ्गतिः, सन्तः, महिमानम्।।
अथवा
क्रमरहितानि वाक्यानि समुचित क्रमानुसारं लिखत-
(क) नीचैः स्थितः बालकः एकमुपायं चिन्तयति ।
(ख) प्रथम: बालकः उक्तवान् यत् ऋक्ष: कथितवान् ‘विश्वासो तस्य न कर्तव्य: आपत्काले जहाति यः।
(ग) वृक्षस्थ बालकः वृक्षात् अवतीर्य आगेत्य च पृच्छति यत् ऋक्षः तस्य कर्णे किं कथितवान्।
(घ) गमनात् पूर्वं तौ प्रतिज्ञातवन्तौ यत यदि कापि समस्या आगमिष्यति तदा तौ परस्परं सहायतां करिष्यतः।
(ङ) उपायानुसारं सः आत्मानं मृतवत् संदर्य भूमौ निपतति ।
(च) एकदा एकस्मिन् नगरे निवसन्तौ द्वौ बालकौ नगरगमनाय प्रस्थानं कृतवन्तौ ।
(छ) ऋक्षः तत्रागत्य बालकस्य कर्णं समीपं मुखं कृत्वा घ्रात्वा च मृतं विज्ञाय वनं प्रतिगच्छति ।
(ज) तौ येन मार्गेण गतवन्तौ तत्र सुविशालं भयंकरं वनक्षेत्रम् आसीत्।।
(झ) ध्वनि श्रुत्वा एकः बालकः तु शीघ्रं वृक्षम् आरोहति किन्तु अन्य: आरोहणं न जानाति स्म।
(ञ) यदी तौ वनं प्रविष्टौ तदा तौ ऋक्षस्य ध्वनिं शृणुतः।
प्रश्न 25.
निम्नलिखितेषु वाक्येषु केषांचित् पञ्चवाक्यानां संस्कृतभाषायां अनुवादं कुरुत [5]
(क) राम पत्र लिखता है।
(ख) गाँव के दोनों ओर वृक्ष हैं।
(ग) वह कानों से बहरी है।
(घ) वृक्ष से पत्ता गिरता है।
(ङ) याचक राजा से धन माँगता है।
(च) गङ्गा हिमालय से प्रकट होती है।
(छ) कवियों में कालिदास श्रेष्ठ हैं।
(ञ) बालक को पुष्प अच्छा लगता है।
प्रश्न 26.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धि विच्छेदं कुरुत [2]
(क) दैत्यारिः,
(ख) प्रेजते
प्रश्न 27.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धिं कुरुत [2]
(क) मधु + अरिः,
(ख) कृष्ण + एकत्वम्
प्रश्न 28.
निम्नलिखितेषु रेखांकित पदेषु प्रयुक्त-विभक्तेः नामोल्लेखं कृत्वा तस्य सूत्रं चापि लिखते। [4]
(क) मोहन: ग्राम प्रति गच्छति ।
(ख) शिष्याय स्वस्ति।।
(ग) जटाभि: तापसः प्रतीयते ।
(घ) हरिः असुरात् त्रायते।
प्रश्न 29.
अधोलिखित पदयोः प्रयुक्तसमासस्य नामोल्लेखपूर्वकं विग्रहं कुरुत [2]
(क) उपकृष्णम्
(ख) प्राप्तोदकः
प्रश्न 30.
अधोलिखित विग्रहवाक्ययोः समासं कृत्वा समासस्य नामोल्लेखमपि कुरुत [2]
(क) कृष्ण: च असौ सर्पः
(ख) हरिश्च हरश्च
उत्तरम्
उत्तर 1:
(क) पुष्करावर्तकानाम् ।
(ख) परिवार वियुक्त (यस्य बन्धुः दूरं गतः) ।
(ग) व्याख्या:- अत्र यक्षस्य माध्यमेन महाकवि कथयति: यतः सुयोग्ये पुरुषे कृता प्रार्थना निष्फला सत्यपि वरं भवति परञ्च अयोग्ये सफला अपि न वरं यतः उत्तमजने सौहार्दादिगुणाः भवति परञ्च अधमः तु अनुदारः भवति ।
उत्तर 2:
(क) अपगतमले हि मनसि उपदेश गुणाः सुखेन प्रविशन्ति।
(ख) अभवस्य श्रवणस्थितं गुरुवचनं शूलम् उपजनयति।
(ग) भवादृशी इत्ययं शब्दः चन्द्रापीडस्य कृते प्रयुक्तः। अयम् उपदेशयोग्यः अस्ति। अपगतमले हि मनसि स्फटिकमणाविव
रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः
उत्तर 3:
(क) रामस्य अश्वमेध-सहधर्मचारिणी हिरण्यमयी सीताप्रतिकृतिः आसीत् ।
(ख) अनुकूल।
(ग) तमसा सीता भागीरथी समीपं कुशलवयोर्वर्षद्धिमङ्गलानि संपादयितुं गन्तुं कथयति।
उत्तर 4:
(क) चारुदत्तः कुत्र निवसति स्म?
(ख) गते व्याख्ने कः समाययौ ?
(ग) किं विना साफल्यं न लभते ?
उत्तर 5:
(क) भावार्थ: (संस्कृत) श्रीकृष्ण कथयति हे अर्जुन ! त्वं हानि-लाभं समान भावेन पश्यन् समत्वयोगे स्थितः सन् आसक्ति परित्यज्य सफल्याम् आसफल्यं च समाने मत्त्वा कर्माणि सम्पादय। यतः अयमेव समत्वयोग उच्यते । (हिन्दी) श्रीकृष्ण कहते हैं- हे अर्जुन! तू हानि-लाभ को समान भाव से देखते हुए समत्वयोग में स्थित हुआ और आसक्ति का परित्याग कर सफलता और असफलता को समान मानकर कर्मों को कर। क्योंकि यही समत्व योग कहलाता है।
(ख) भावार्थः (संस्कृत) यः मनुष्यः सदैव अभिवादनं प्रणामादिकं करोति, सदैव गुरूणां सेवां करोति, तस्य वयः ज्ञानं, कीर्ति, शक्तिः च सदैव वृद्धिं यान्ति। (हिन्दी) जो मनुष्य सदैव अभिवादन (प्रणाम आदि) करता है, सदैव बड़ों की सेवा करता है, उसकी आयु, ज्ञान, कीर्ति और शक्ति ये चारों वृद्धि को प्राप्त होती हैं।
उत्तर 6:
अन्वयः अल्पानां वस्तूनाम् अपि संहतिः कार्य-साधिका भवति। गुणत्वमापन्नैः तृणैः अपि मत्तदन्तिनः बध्यन्ते ।
सरलार्थ-छोटी-छोटी वस्तुएँ भी मिलकर बड़े-बड़े कार्यों को संपन्न करने वाली होती हैं। छोटे-छोटे तिनकों से मिलकर बनी रस्सी मतवाले हाथी को बाँधने में समर्थ हो जाती है।
उत्तर 7:
(क) हविषा : आहुति द्वारा।
(ख) प्रावारकः उत्तरीय, दुपट्टा।
उत्तर 8:
विद्वान् इति आतिष्ठेत् क्रियापदस्य कर्तृपदम् ।
उत्तर 9:
‘सङ्घटनात्मिकां’ इति विशेषण पदं ‘बुद्धिम्’ इति विशेष्य पदम्।
उत्तर 10:
छायेव नन्दिनँ भूपतिरन्वगच्छत् ।
उत्तर 11:
‘स्वामिन् ! त्वदीयोऽहं लागुडिकः’ इति शृगालः सिंहाय कथयति ।
उत्तर 12:
लघुतरा।
उत्तर 13:
स्वभावेन।
उत्तर 14:
- ऋग्वेदः वैदिक साहित्यस्य समस्त रचनासु प्राचीनतमः ऋग्वेदः महत्वपूर्णः अस्ति। छन्दोबद्धकारणात् इयं संहिता ‘ऋग्वेद संहिता’ इति नाम्ना अभिहिता।
- यजुर्वेदः वेदव्यासः वेदं वैशम्पनाय प्रोवाच। वैशम्पायनः स्वशिष्याय याज्ञवल्क्याय प्रोक्तवान्। कस्मादपि कारणात् रुष्टः वैशम्पायनः याज्ञवल्क्यं जगाद देहि मत् पठितं वेदज्ञानं । याज्ञवल्क्यः गुरुवचनस्य अनुपालनाय ततः अधीतं वेदज्ञानं । वमनं कृतवान्। वैशम्पायनस्य अन्ये शिष्याः तित्तिरपक्षीरूपं धारयित्वा तद् वमनीकृत वेद ज्ञानं गृहीतवन्ते । तदेव वमनीकृतं यजुर्वेदज्ञानं कृष्णयजुर्वेदः अस्ति। याज्ञवल्क्यः पुनः वेदविद्यां पठितुं सूर्यम् आराधितवान् । तदा सूर्यदेव कृपया सम्प्राप्तः यजुर्वेद ज्ञानं शुक्लयजुर्वेद नाम्ना प्रसिद्धः अस्ति।
- अथर्ववेदः महर्षिणा अथर्वणा दृष्टः वेदः अथर्वः कथ्यते। अस्मिन वेदे यातु विद्यायाः अभिचार क्रियायाः चे प्रधानता अस्ति। अथर्ववेदस्य वण्र्यविषयः त्रिषु विभागेषु विभक्तः अस्ति
- अध्यात्मम्,
- अधिभूतम्,
- अधिदैवतम्।
- सामवेदः वैदिकवाङ्मये सामवेदस्य स्थानं महत्त्वपूर्णम् अस्ति। यज्ञानुष्ठाने ऋत्विजः उच्चस्वरैः सामगानं कुर्वन्ति स्म। होता (आह्वानकर्ता) यज्ञावसरे देवतानां प्रशंसायां रचितान् मन्त्रान् उच्चारयन् देवताः आह्वयति। यज्ञे गानाय
संकलितानां मंत्राणां नाम एवं सामवेद अस्ति ।
उत्तर 15:
गद्य सम्राट महाकवि बाणभट्टेन विरचिता ‘कादम्बरी’ सर्वश्रेष्ठं गद्यकाव्यमस्ति । अयं ग्रन्थः कथाग्रन्थः अस्ति। कादम्बर्यां वर्णिता कथा गुणाढ्यकृतायाः बृहत्कथात: गृहीता। साधारण कथां आदाय बाणभट्टेन स्वकाव्यकौशलनेन वैशिष्ट्ययुक्ता कादम्बरी रचिता तदेव कथयन्ति ‘‘गद्यं कबीनां निकष वदन्ति।” कादम्बर्या संस्कृत वाङ्मयः सुसमृद्धः जातः। विश्वै एका विशिष्टा रचना अस्ति कादम्बरी।
उत्तर 16:
मुद्राराक्षसस्य कतिपयानि एतादृशानि वैशिष्ट्यानि सन्ति यानि अन्येषु संस्कृतनाटकेषु न उपलभ्यन्ते । इदं नाटकं पूर्णतया राजनीतिप्रधानं, ऐतिहासिकः वीररसप्रधानं, विदूषकस्य स्त्रीपात्राणां च अभावयुक्तः अस्ति।
उत्तर 17:
(क) आचार्य मधुरकशास्त्रिणा रचितस्य महाकाव्यस्य ‘श्री महावीर सौरभम्’ नाम अस्ति।
(ख) ‘ईश्वरविलासः इति महाकाव्यस्य लेखक श्री सीताराम भट्ट पर्वणीकरः अस्ति।
(ग) पं. गुलाबचन्द्रचूलेट: माघ पुरस्कारेण विभूषितः आसीत् ।
उत्तर 18:
(क) उपजाति लक्षणम्-अनन्तरोदीरिति लक्ष्म भाजौ पादौ यदीयावुपजातयस्ताः अर्थात् जिस छन्द के चरण इन्द्र वज्रा और उपेन्द्रवज्रा के लक्षण वाले चिन्हों से युक्त हों, वह उपजाति नामक छन्द होता है। इसके प्रत्येक चरण में इन्द्रवज्रा अथवा उपेन्द्रव्रज्रा के लक्षणों से युक्त ग्यारह वर्ण होते हैं।
उदाहरण
(ख) वसन्ततिलका
लक्षणम्: ”उक्ता वसन्त तिलको तभजाजगौ गः” जिस छन्द के प्रत्येक चरण में तगण, भगण, जंगण पुनः जगण गुरु और गुरु क्रमानुसार होते हैं चौदह वर्गों को वह वृत्त वसन्ततिलका नाम से प्रसिद्ध है।
उदाहरणम्
उत्तरम्
(ग) मन्दाक्रान्ता
लक्षणम्: ‘मन्दाक्रान्ताम्बुधि रसनगै भनौ तौ गयुग्मम्’ इस छन्द के प्रत्येक पाद में क्रमश: मगण, भगण, नगण, दो तगण और अंत में दो गुरु वर्ण आते हैं और (अम्बुधि:) चौथे, (रसा:) छठवें, (नगा:) सातवें वर्णो (अर्थात् चौथे, दसवें और सातवें वर्णो) पर यति होती है। यह सत्रह वर्षों का छन्द होता है। उदाहरणम्:
उत्तर 19:
(क) यमकम्
उत्तर 20:
लक्षणम्: सत्यर्थे पृथगर्थायाः स्वरव्यञ्जन संहतेः।
क्रमेणतेनैवावृत्तिर्यक विनिगद्यते।। यत्र सार्थकयोः परन्तु परस्परं भिन्नार्थयो: द्वयोः वर्ण संघातयोः क्रमेण आवृत्तिः तत्र यमकालङ्कारः जायते। उदाहरणम् नवपलाश पलाशवनं पुरः,
स्फुटपराग परागतपङ्कजम्।
मृदुलतान्तलतान्तमलोऽकयत्,
से सुरभि सुरभि सुमुनोभरैः।।
अत्र प्रथमपादे पलाशद्वयस्य अर्थद्वयमस्ति-पत्रम्, पलाशवृक्षश्च । एवमेव चतुषुपदेषु पदद्वयस्य अर्थद्वयमस्ति। अत: अत्र यमकालंकारः जायते ।।
(ख) उपमा
लक्षणम्प्र: स्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते । यत्र उपमानोपमेययोः स्पष्टं सुन्दरं च सादृश्यं भवति तत्र उपमा अलङ्कारः अभिधीयते। उदाहरणम्-हंसीव कृष्ण! ते कीर्तिः स्वर्गङ्गावगाहते । अत्र उपमेयः कीर्तिः उपमानः च हंसी, साधारणधर्मः ‘स्वर्गङ्गावगाहते’ वाचक शब्दः-इव। अतः अत्र चतुर्णाम् उपमावयवानां विद्यमानत्वात् पूर्णोपमा विद्यते।
(ग) अर्थान्तरन्यासः
लक्षणम्: सामान्यं वा विशेषो वा तदन्येन समय॑ते ।
यत्र सोऽर्थान्तरन्यासः साधणेतरेण वा। यत्र साधर्मेण वैधयॆण वा सामान्यस्य विशेषेण विशेषष्य सामान्येन वा समर्थ्यते तत्र अर्थान्तरन्यासोऽलङ्कारः स्यात् । उदाहरणम्- वृहत्सहाय्यः कार्यान्तं क्षोदीयानपि गच्छति।
सम्भूयाम्भोधिमभ्येति महानद्याः नगापगा।। अत्र पूर्वार्द्धगत: सामान्योऽर्थः-‘वृहत्सहाय्यः क्षोदीयानपि कार्यान्तं गच्छति’ इति, द्वितीयार्थगतेन विशेषेण अर्थेन-‘नगापगाः
महानद्या सम्भूय अम्भोधिय् अभ्येति ‘समर्थ्यते’, अतः अत्र अर्थान्तरन्यासोऽलङ्कारः।
उत्तर 21:
क) अनुप्रास । लक्षण-‘अनुप्रासः शब्द-साम्यं वैषम्येऽपि स्वरस्य यत् ।
(ख) रूपकम्। लक्षण-तरूपकमभेदो यः उपमानोपमेययो ।
उत्तर 22:
(क) भाग्यवादिनः।
(ख) अभीष्ट पदार्थानां सुखमाप्तुम् उद्योग एव मुख्य साधनम्।
(ग) ‘द्विविधाः’ इति विशेषणपदं जनाः’ च विशेष्य पदम् ।
(घ) पुरुषर्थशालिनः वदन्ति यत् उन्नतिः पुरुषार्थेन एव भवति।
उत्तर 23:
(क) सत्पुरुषाः।
(ख) दधीचिः देवानां हिताय स्वीयानि अस्थीनि अददत् ।
(ग) ‘ते’ इति सर्वनाम पदम्।
(घ) परोपकारः।।
उत्तर 24:
सतां सज्जनानां वा सङ्गति सत्सङ्गतिः कथ्यते । मानव-जीवने सत्सङ्गते: अतिमहत्वं वर्तते । यः यादृशीं सङ्गतिं । करोति सः तादृशमेव फलं लभते। मूर्खः अपि प्रवीणानां संसर्गे प्रवीणताम् प्राप्नोति। सत्सङ्गतयो मानवस्य विचारधारा अपि परिवर्तते । सज्जनानां संसर्गेण मनुष्य शुभ्रयशः लभते। सत्सङ्गेन गुणहीनः अपि गुणयुक्तः भवति । दुर्जनानामपि दोष निवारणः भवति । कुसङ्गतिः मानवे दोषजातं जनयति तस्य विनाशः च भवति । सत्सङ्गति: मानवस्य महिमानं वर्धयति। एवं सत्सङ्गप्रियाः सन्तः जनाः सज्जनतां लभन्ते।
अथवा का उत्तर
(क) एकदा एकस्मिन् नगरे निवसन्तौ द्वौ बालकौ नगरगमनाय प्रस्थानं कृतवन्तौ।
(ख) गमनात् पूर्वं तौ प्रतिज्ञातवन्तौ यत् यदि कापि समस्या आगमिष्यति तदा तौ परस्परं सहायतां करिष्यतः।
(ग) तौ येन मार्गेण गतवन्तौ तत्र सुविशालं भयंकरं वन क्षेत्रमासीत् ।
(घ) यदी तौ वनं प्रविष्टौ तदा तौ ऋक्षस्य ध्वनिं शृणुतः।।
(ङ) ध्वनि श्रुत्वा एकः बालकः तु शीघ्र वृक्षम् आरोहति किन्तु अन्यः आरोहणं न जानाति स्म।
(च) नीचैः स्थितः बालक: एकम् उपायं चिन्तयति ।
(छ) उपायानुसारं सः आत्मानं मृतवत् संदर्य भूमौ निपतति ।
(ज) ऋक्षः तत्रागत्य बालकस्य कर्ण-समीप मुख कृत्वा घ्रात्वा च मृतं विज्ञाय वनं प्रतिगच्छति ।
(झ) वृक्षस्थ बालकः वृक्षात् अवतीर्य आगत्य च पृच्छति यत् ऋक्ष: तस्य कर्णे किं कथितवान्
(ज) प्रथमः बालकः उक्तवान् यत् ऋक्षः कथितवान् ‘विश्वासः तस्य न कर्त्तव्यः आपात् काले जहाति यः।
उत्तर 25:
(क) रामः पत्रं लिखति।
(ख) ग्रामम् उभयतः वृक्षाः सन्ति।
(ग) सः कर्णाभ्यां वधिरः।
(घ) वृक्षात् पत्रं पतति।
(ङ) याचकः नृपं धनं याचते।।
(च) गङ्गा हिमालयात् प्रभवति ।
(छ) कविषु/कवीनाम् कालिदासः श्रेष्ठः।
(ज) बालकः पुष्पाय स्पृहयति ।
उत्तर 26:
(क) दैत्यारिः = दैत्य + अरिः – अक: सवर्णे दीर्घः
(ख) प्रेजते = प्र + एजते – एङि पररूपम्। ।
उत्तर 27:
(क) मधु + अरिः = मध्वरि:/मद्ध्वरिः – इको यणचि
(ख) कृष्ण + एकत्वम् = कृष्णैकत्वम् -वृद्धिरेचि।
उत्तर 28:
(क) ग्रामम्-अत्र द्वितीया विभक्ति:–अभितः परितः समया निकषा हा प्रतियोगेऽपि (वा)
(ख) शिष्याय-चतुर्थी विभक्ति:–नमः स्वस्ति स्वाहास्वधालं वषड्योगाच्चे।
(ग) जटाभिः-तृतीया विभक्ति:–इत्थं भूत लक्षणे ।
(घ) असुरात्-पञ्चमी विभक्तिः–भीत्रार्थानां भय हेतुः।
उत्तर 29:
(क) उपकृष्णम्: कृष्णस्य समीपम्-अव्ययीभाव समासः।
(ख) प्राप्तोदकः प्राप्तम् उदकम् यम् सः -बहुव्रीहि समासः ।
उत्तर 30:
(क) कृष्णः च असौ सर्पः = कृष्ण सर्प:-कर्मधारय (विशेषण विशेष्य कर्मधारयः)
(ख) हरिश्च हरश्च = हरिहरौ = द्वन्द्वसमास (इतरेतर द्वन्द्वः)
We hope the given RBSE Class 12 Sanskrit Model Paper 1 will help you. If you have any query regarding RBSE Class 12 Sanskrit Sample Paper 1, drop a comment below and we will get back to you at the earliest.